________________
२०४५
ऽध्यायः] अग्निहोत्रप्रकरणवर्णनम् ।
प्राम्यारण्याश्च पशवः सूयन्ते यज्ञकारणात् । मन्त्राणां विनियोगञ्च प्रोक्षणं श्रवणं तथा ॥६४ अनुयाजप्रयाजांश्च मरुतां शासिनस्तथा। उद्गात्रञ्चैव साम्नां वै वलिप्रस्थानमेव च ॥६५ विष्णुक्रमाणां क्रमणं दक्षिणावभृतं तथा । त्रिकालं चैव भूमिश ! स्थानेपूपभृतस्तथा ॥६६ श्रवणम्मोक्षणञ्चैव हविषां श्रवणन्तथा । नावतुल्यन्ति ये विप्रा निवृत्ताश्च पशोर्वशम् ॥६७ ते या न्त नरकं घोरं रौरवं तमसावृतम् । शतवर्षसहस्राणि तत्र स्थित्वा नराधमाः॥६८ क्रिमिभि भक्ष्यमाणाश्च तिष्टेयुः पूयशोणिते । यूपास्तु उक्तसंस्कार रोषध्यः पशवस्तथा॥६६ यजमानेन सहिताः स्वर्ग यान्ति नरेश्वर ।। यावत्कालं हि यज्ञो वै स्वर्गलोके महीयते ।।७० तावत्कालं प्रमोदन्ते पशवोह्यध्वरे हताः । वृक्षा यूपत्वमिच्छन्ति पशुत्वं पशवस्तथा ॥७१ तृणा इच्छन्ति दर्भत्व मोषध्यश्च हविष्मताम् । सोमत्वञ्च लताः सर्वा वेदित्वञ्च वसुन्धरा ।।७२ यस्मात्पशुत्वमिच्छन्ति पशवः स्वर्गलिसया । तस्मात्पशुवधे हिंसा नास्ति यज्ञेषु पाण्डव ! ॥७३ अहिंसा वैदिकं कर्म ब्रह्मकर्मति तत् स्मृतम् । वेदोक्तं ये न कुर्वन्ति हिंसावुध्या क्रतं द्विजाः ॥७४