________________
२०४४
वृद्धगौतमस्मृतिः ।
छन्दः शिक्षाश्च कल्पाश्च तथा व्याकरणं नृप ! | ज्योतिर्ज्ञानं निरुक्तञ्च ह्यग्निहोत्रकृते कृतम् ॥ ५३ इतिहासपुराणश्च गाथाश्चोपनिपद्तथा । आथर्वणानि कर्माणि अग्निहोत्रकृतेऽभवन् ॥५४ यस्यां पृथिव्यां हि किञ्चिदस्ति चराचरम् । तत्सर्वमग्निहोत्रस्य कृते सृष्टं स्वयम्भुवा ॥५५ अग्निहोत्रस्य दर्शस्य पौर्णमासस्य चाप्यथ । यूपे टिपशुबद्धानां सोमपान क्रियावताम् ||५६ तिथिनक्षत्रयोगानां मुहूर्त करणात्मनाम् । कालानां वेदनार्थन्तु ज्योतिर्ज्ञानं कृतं पुरा ॥५७ ऋग्यजुः साममन्त्राणां लोकचित्तार्थचिन्तनात् । प्रत्यापत्तिविकल्पार्थं छन्दोज्ञानं प्रकल्पितम् ॥५८ वर्णाक्षरपदार्थानां सुपि लिङ्गविभक्तितः । नामधातुविवेकार्थ पुरा व्याकरणं कृतम् ॥५६ यूपवेद्यध्वरार्थन्तु प्रोक्षण ग्रहणाय तु । यज्ञदैवतयोगार्थं शिक्षाज्ञानं प्रकल्पितम् ||६० यज्ञपात्र पवित्रार्थं द्रव्यसम्भरणाय च । सर्वयज्ञविकल्पाय पुरा तुल्यं प्रकल्पितम् ॥ ६१ नाममन्त्रविभक्तानां तत्त्वार्थनियमाय च । सर्ववेदनिरुक्तच्च निरुक्त मृषिभिः कृतम् ||६२ der पृथिवी सृष्टा सम्भारार्थं तथैव च । इध्मनार्थञ्च यूपार्थं ब्रह्मा चक्रे वनस्पतीन् ॥६३
[ पञ्चदशो