________________
२०४३
ऽध्यायः] अग्निहोत्रप्रकरणवर्णनम् ।
हो इत्येष विवादो वै विषादो दुःख मुच्यते । दुःखं तापत्रयं प्रोक्तं तापो हि नरकं विदुः ।।४२ यस्माद्वा त्रायते दुःखाद्यजमान हुतोऽनलः । तस्मात्तु विधिवत्प्रोक्त मग्निहोत्रमिति श्रुतम् ।।४३ तदग्निहोत्रं सृष्टं वै ब्रह्मणा लोककारिणा। वेदाश्चाप्यग्निहोत्राथ जज्ञिरे स्वयमेव तु ॥४४ अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम् । रतिपुत्रफला नारी दानहोमफलं धनम् ॥४५ त्रिवेदमन्त्रसंयोगादग्निहोत्रं प्रचक्षते । ऋग्यजुः सामभिः पुण्यैः स्थाप्यते सूत्रसंयतैः ॥४६ वसन्ते ब्राह्मणस्य स्यादाधयोऽग्नि नराधिप !। वसन्तो ब्राह्मणः प्रोक्तो ब्रह्मयोनिः स उच्यते ॥४७ अग्न्याधानन्तु येनाथ वसन्ते क्रियते नृप ! तस्य श्रीब्रह्मपुष्टिश्च ब्राह्मणस्य विवर्द्धते ॥४८ क्रतवः सर्व एवते त्रिभिदैरलहकृताः। अग्निहोत्राः प्रवर्तन्ते यैरिदं ध्रियते जगत् ॥४६ ग्राम्यारण्याश्च पशवस्तथा वृक्षास्तृणानि च ! फलान्योषधयश्चापि चाग्निहोत्रकृतेऽभवन् ।।५० रसाः स्नेहा स्तथा गन्धा रत्नानि मणयस्तथा । काञ्चनाद्यानि लोहाणि चाग्निहोत्रकृतेऽभवन् ॥५१ आयुर्वेदो धनुर्वेदो मीमांसा न्यायविस्तरः । धर्मशास्त्रश्च तत्सर्व मग्निहोत्रकृतेऽभवत् ।।५२