SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २०४२ . वृद्धगौतमस्मृतिः। [पञ्चदशो' तेषां सभागतोवह्निः सभ्य इत्यभिधीयते । आवसथस्तु यो वह्निः प्रथमः स प्रजापतिः ॥३१ ब्रह्मा वै गार्हपत्योऽग्नि स्तस्माद्देवो हि वा भवेत् । दक्षिणाग्निः स्वयं रुद्रः क्रोधात्मा चण्ड एव सः ।।३२ अहमाहवनीयोऽग्नि रन्तरीक्षञ्च दक्षिणः। स्वर्गमाहवनीयोऽग्निरेव मग्नित्रयं स्मृतम् ॥३३ वृत्तो वै गार्हपत्योऽग्नि यस्माद्वृत्ता च मेदिनी । अर्द्धचन्द्राकृतिः खं वै दक्षिणाग्नि स्तथा भवेत् ॥३४ चतुरस्रं ततः स्वर्ग निर्मलं ह्यग्निसन्निभम । तस्मादाहवनीयोऽग्नि श्चतुरस्रो भवेन्नृप ! ॥३५ जुहुयागाहपत्यं यो भुजयति स द्विजः । जुहुयादक्षिणाग्नि यः स जयत्यन्तरीक्षकम् ॥३६ पृथिवी मन्तरीक्षं वा दिवमृक्षगणैः सह । जयत्याहवनीयं यो जुहुयाद्भक्तिमान् द्विजः॥३७ यस्त्वावसथे जुडुयात्तुलाग्नि विधिवद्विजः। स च सप्तर्षिलोकेषु सपत्नीकः प्रमोदते ॥३८ यश्चाप्युपास्ते सभ्यं वा विधिवत्प्रयतात्मवान् । स जयेद्वा यमभयं सर्व तथाप्यहिसभामपि ॥३६ अग्नीनामथवाग्नेस्तु यस्य होमः प्रदीयते । ईय|भवति सर्वोऽग्निरग्निहोत्रञ्च वै भवेत् ॥४० त्रयणामपि वह्रीनामग्निहोत्रमिति स्मृतम् । त्राणाद्वै यजमानस्य चाग्निहोत्र मिति स्मृतम् ॥४१
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy