________________
२०४१
ऽध्यायः]
धर्ममहत्वर्णनम्। तस्मिन् पञ्च महायज्ञा वर्तन्ते यस्य धर्मतः । सोममण्डलमध्येन गतिस्तस्य द्विजन्मनः॥२० तेन सप्तर्षयः सिद्धाः संयतेन्द्रियबुद्धयः गतात्मभासा युज्यन्ने मेध्याग्नेश्च न तत्पराः॥२१ अपरे चावशंसन्ते पचनाग्नि प्रचक्षते । तस्मिन् पञ्च महायज्ञा वैश्वदेवश्च वर्तते ॥२२ स्थालीपाकश्च गृह्याश्च सर्वे तस्मिन् प्रतिष्ठिताः । गृह्यकर्मवहो यस्माद् ततो गृहपतिस्तु सः ।।२३ औपासनञ्चावसथं सभ्यं पचनपावकम् । आहुर्ब्रह्मविदः केचिदेतमेव ममापि च ।२४ अग्निहोत्रप्रकारन्तु शृणु राजन् ! समाहितः । त्रयाणां गणनामापि अग्नीनामुच्यते मया ॥२५ गृहाणान्तु पतित्वाद्धि गार्हपत्यमिति स्मृतम् । यजमानन्तु यस्मात्त दक्षिणान्तु गतिं नयेत २६ दक्षिणाग्नि तदाहुस्ते दक्षिणत्वाच्च तडिजाः । आहुतीः सर्वमाख्यातं हवनं हव्यवाहनम् ।।२७ आहूय योऽग्नि नियतं यश्चाहवनसंरतः। आभिमुख्येन होमस्तु यस्माद्यज्ञेषु वर्तते ॥२८ तेनास्याहवनीयत्वं गतोवहिर्महाद्युतिः । आहोमादग्निहोत्रेषु यज्ञे ये यत्र सर्वशः ॥२६ यस्मादस्मिन् प्रवर्तते ततोह्याहवनीयता । आवसथन्तु येचाग्नि पचनाग्नि प्रचक्षते ॥३०