SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २०४० वृद्धगौतमस्मृतिः। [पञ्चदशोएतत्सर्वं हि देवेश ! भक्त्या भूपगतस्य मे। वक्तुमर्हसि धर्मज्ञ ! सर्वावास ! नमोऽस्तु ते ॥१० श्रीभगवानुवाच । शृणु राजन् ! महत् पुण्यमिदं धर्मामृतं परम् । यत्तु तारयते भक्तान् ब्रह्मणानग्निहोत्रिणः ॥११ ब्रह्मा त्वेतान् सृजन लोकान् महदाद्यान् महाद्युतीन् । सृष्टोऽग्निर्मुखतः पूर्व लोकानां हितकाम्यया ॥१२ यस्मादग्रे स भूतानां सर्वेषानिर्मितो मया। तस्मादग्नीत्यभिहितं पुराण महर्षिभिः ॥१३ यस्मात्तु सर्वकृत्येषु पूर्वमस्मै प्रदीयते । आहुतिदीप्यमानाय तस्मादग्नीति कथ्यते ॥१४ यस्माञ्च नयति ह्यमां गतिं विप्रान् सुपूजितान् । तस्माच्च नयनाद्राजन् ! वेदेष्वग्नीति चोच्यते ॥१५ यस्माञ्च दुहु तान् सोऽय मलम्भक्षयितुं क्षणात् । यजमाना नरश्रेष्ठाः क्रव्यादोऽग्निस्तु न स्थितः ॥१६ सर्वभूताधिपो राजन् ! देवानामेष वै मुखम् । प्रथमं मन्मुखात् सृष्टो लोकार्थे पचनप्रभुः ।।१७ सृष्टमात्रो जगत्सर्व मुत्तमैश्च युतं खलु । ततः प्रशमितः सोऽग्निरूपः स मायया पुरा ॥१८ स्तृतादुपासनात् सोऽयमौपासन इति स्मृतः । आहुतिः सर्वमाख्यातस्तस्मिन् वसति योऽनलः । आवसथ इति ख्यातस्तेनासौ ब्रह्मवादिभिः ।।१६
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy