________________
ऽध्यायः
धर्ममहत्ववर्णनम् । २०३६
पञ्चदशोऽध्यायः। अथ धर्ममहत्ववर्णनम् ।
युधिष्ठिर उवाच । भगवंस्तव भक्तस्य मम धर्मजनप्रिय !। धर्म पुण्यतमं देव ! पृच्छतः कथयस्व मे ॥१ यदेकमग्निहोत्रं वै पृष्टं वर्णत्रयस्य तु । मन्त्रस्य वृध्या तं सम्यग्विधिना चाप्युपासितम् ॥२ आहितानिन्नयत्यूद्ध सपत्नीकं सबान्धवम् । कथं तद्ब्राह्मणदेव ! होतव्यं क्षत्रियैः कथम् ।।३ वैश्यैर्वा देव ! देवेश ! कथं वा सुहुतं भवेत् । कस्मिन् काले कथं कस्यचेयोऽमिः स्यात् सुरेश्वर !॥४ आहितस्य कथं वाऽपि सम्यगाचरणं भवेत्। कत्यग्नयः किमात्मानं स्थानं किं कस्य वा विभो ! ॥५ कतरस्मिन्नु वा स्थाने किं व्रजेदग्निहोत्रकः । अग्निहोत्रनिमित्तश्च किमुत्पन्न पुराऽनघ !॥६. कथमेवाथ हूयन्ते प्रीयन्ते च सुरैः कथम् । विधिवन्मन्त्रवद्भक्या पूजिता स्त्वग्नयः कथम् ।।७ कां गतिं वदतां श्रेष्ठ ! नयन्ति ह्यग्निहोत्रिणम् । दुहु ताश्चाग्निहूताश्चाप्यविज्ञातास्त्रयोऽग्नयः ।।८ . किमाहिताग्नेः कुर्वन्ति चीर्णा वा अपि केशव!। उत्सन्नाग्निस्तु पापात्मा का योनि देव ! गच्छति ॥ १२८