SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ वृद्धगौतमस्मृतिः । विवृणोति च मन्त्रार्था नाचार्यः सोऽभिधीयते । उपाध्यायाद्दशाचार्य्य आचार्याणां शतं पिता ||६० पितुर्दशगुणं माता गौरवेणातिरिच्यते । तस्मात्तेषां वशे तिष्ठेत्तच्छुश्रूषापरोभवेत् ॥ ६१ अवमानात्तु तेषां हि नरकान्याति सर्वशः । अनङ्गानतिरिक्ताङ्गान् विद्याहीनान् वयोऽधिकान् ॥६२ रूपद्रविणहीनांश्च जातिहीनांश्च नाक्षिपेत् । शपतो यत् कृतं पुण्यं सेव्यमानन्तु गच्छति ॥ ६३ सेव्यमानस्य यत्पापं शपन्त मनुगच्छति । नास्तिक्यं लोकनिन्दाच देवतानाञ्च तुच्छनम् । द्वेषं स्तम्भञ्च मोहञ्च क्रोधन्तैक्ष्ण्यं विवर्जयेत् ॥६४ यस्य यस्य हि यो भाव स्तेन तेन हि तं रथम् । अनुप्रविश्य मेधावी क्षिप्रमात्मवशन्नयेत् ॥६५ इति गौतमीये श्रीवैष्णवधर्मशास्त्रे धर्मसारसमुच्चयो नाम चतुर्दशोऽध्यायः । २०३८ [ चतुर्दशो
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy