SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः धर्मसारसमुच्चयवर्णनम् । संज्ञया ज्ञायते देशो म्लेच्छ देशस्तु तत्परम् । एतान् विज्ञाय देशांस्तु संश्रयेरन् द्विजातयः ||५० शूद्रस्तु यस्मिन् वा निवसेद्वृत्तिकर्शितः । आचारप्रभवोधर्मो ह्यहिंसा सत्यमेव च ॥५१ दानञ्चैव यथा शान्ति नियमानियमैः सह । वैदिकैः कर्मभिः पुण्यः निषेकादि द्विजात्मनाम् ॥५२ कार्य्यः शरीरसंस्कारः पावनः प्रेत्य चेह च । गा होमैर्जातकर्म नाम चौडोपनायनैः ॥५३ स्वाध्यायंस्तर्पणैश्चैव विवाहस्नातकव्रतैः । महायज्ञैश्च यज्ञैश्च ब्राह्मीयः क्रियते ततः ॥ ५४ धर्मार्थौ यस्य महतां शुश्रूषामपि तद्विधः । न तस्य विद्या वक्तव्या कदाचिदपि चोषरे ॥५५ लौकिकं वैदिकं वाऽपि तथाध्यात्मिकमेव च । यतो ज्ञानागमं प्राप्त स्तं पूर्वमभिवादयेत् ॥५६ सव्येषु सव्यं स्पृष्टव्यो दक्षिणेन तु दक्षिणम् । न कुर्य्यादेकहस्तेन गुरोः पादाभिवन्दनम् ॥५७ निषेकादीनि कर्माणि यः करोति यथाविधि । अध्यापयन्ति वेदांश्च स विप्रो गुरुरुच्यते ॥ ५८ इहोपनयनं वेदान्योऽध्यापयति नित्यशः । सुकल्पान् इतिहासांश्च स उपाध्याय उच्यते । साङ्गान् वेदश्चि योऽध्याप्य शिक्षयित्वा वृतानि च ॥५६ २०३७
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy