SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः ] धर्मसारसमुच्चपवर्णनम् | २०३५ धनानि येषां विफलानि सन्ति नित्यं रमन्ते परलोकमूढाः । तेषा मयं शत्रुवरघ्नलोको नासौ सदेहः ससुखं रमेत ॥ ३१ ये युक्त योगास्तपसि प्रयुक्ताः स्वाध्यायशीला जरयन्ति देहम् । जितेन्द्रिया भूतहिते निविष्टास्तेषा मसौ नायमरिघ्नलोकः ||३२ ये धर्ममेव प्रथमञ्चरन्ति श्रमेण लब्धा निधनानि काले । दारानवाप्य क्रतुभिर्यजन्ति तेषा मयञ्चैव परश्च लोकः ||३३ ये नैवविद्या न रूपो न दानं न चापि मूढाः प्रजने यतन्ते । न चापि गच्छन्ति सुखान्यभावात् तेषामयञ्चैव परस्य नास्ति ॥ ३४ युधिष्ठिर उवाच । नारायण ! पुराणेश ! योगवास ! नमोऽस्तु ते । श्रोतुमिच्छामि कार्त्स्न्येन धर्मसारसमुच्चयम् ॥३५ श्रीभगवानुवाच । धर्मसारं महाराज ! मनुना प्रोक्त मादितः । प्रयच्छामि मनुप्रोक्तं पौराणं श्रुतिसन्ततम् ॥३६ अग्निचित्कपिला सत्री राजा भिक्षु महोदधिः । दृष्टमात्राः पुनन्त्येते तस्मात्पश्येत तान् सदा ||३७ गौरेकस्य प्रदातव्या न बहूनां युधिष्ठिर ! | या गौर्विक्रयमापन्नादहत्यासप्तमं कुलम् ॥३८ बहूनां न प्रदातव्या गौर्वस्त्रं शयनं स्त्रियः । तादृक् भूतन्तु यद्दानं दातारं नोपविष्ठति ॥३६
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy