________________
२०३४
वृद्धगौतमस्मृतिः। [चतुद्दशोशूद्रप्रेषणकर्तुश्च ब्राह्मणस्य युधिष्ठिर ! । भूम्यामन्नं प्रदातव्यं श्वशृगालसमो हि सः ।।२० प्रेतीभूतञ्च यः शूद्रं ब्राह्मणोज्ञानदुर्बलः । अनुगच्छेन्नीयमान त्रिरात्र मशुचिर्भवेत् ॥२१ त्रिरात्रे तु ततः पूर्णे नदीं गत्वा समुद्रगाम् । प्राणायामशतं कृत्वा घृतं प्रास्य विशुद्ध्यति ।।२२ अनाथब्राह्मणं प्रतं ये वहन्ति द्विजोत्तमाः। पदे पदेऽश्वमेधस्य फलं ते प्राप्नुवन्ति हि ॥२३ न तेषा मशुभं किञ्चित् पापं वा शुभकर्मणाम् । जलावगाहनादेव सद्यः शौचं विधीयते ॥२४ शूद्रवेश्मनि विप्रेण क्षीरं वा यदि वा दधि । घृतन्तेन न भोक्तव्यं विद्धि शूद्रानमेव तत् ।।२५ विप्राणां भोक्तुकामाना मत्यन्तच्चान्तकाङ्ख्या ।
यो विघ्नं कुरुते मर्त्य स्ततोऽन्यो नास्ति पापकृत् ।।२६ सव च वेदाः ऋषिभिः सहाङ्गैः साङ्ख्यं पुराणञ्च कुलब्च जन्मनोः । एतानि सर्वाणि गतौ भवन्ति शीलव्यपेतस्य न हि द्विजस्य ॥२७ गृहोपरागे विषुवायनादि सुपुण्यतिथ्याञ्च सुते च जाते । नवेषु पद्मेषु च पाण्डुपुत्र ! गच्छेत्सनिष्कन्तु सहस्र तुल्यम्।।२८ नभस्यमासस्य च कृष्णपक्षे त्रयोदशी पञ्चदशी च मासे। उपप्लवे चन्द्रमसोरवेश्च श्राद्धस्य काले ह्ययनद्वयं न ॥२६ य स्त्वेकपंत्तयां विषमं ददाति स्नेहाद्भयाद्वा यदिवार्थहेतोः। वरं दुराचार मनात्मवन्तं ब्रह्मघ्नमेनं मुनयो वदन्ति ॥३०