________________
२०३२
वृद्धगौतमस्मृतिः। [चतुदशोचतुर्दशोऽध्यायः। अथापद्धर्मवर्णनम् ।
युधिष्ठिर उवाच। समुच्चयं तु धर्माणो भोज्याभोज्यञ्च केशव ! श्रुतं मया त्वत्प्रसादादापद्धर्मं ब्रवीहि मे ॥१
श्रीभगवानुवाच । दुर्भिक्षे राष्ट्रसम्पाते त्वशौचे मृतसूतके । कर्मकालेऽध्वनि तथा नियमस्थो न लुप्यते ॥२ दूराष्वचलनात्खिन्नो द्विजालाभे तु शूद्रतः । अकृतान्नञ्च यत्किञ्चिद्गृह्णीयादात्मवृत्तये ॥३ आतुरो दुःखितो वाऽपि भया? वा बुभुक्षितः । भुञ्जन्नविधिना विप्रः प्रायश्चित्तीयते न च ॥४ यत्किञ्चिदपि कुर्वाणो विद्वान् गुरुनियोगकः। तेषां वचनसामर्थ्यात्प्रायश्चित्तीयते न च ॥५ अनृतावृतुकाले वा दिवा रात्रौ तथापि वा । प्रोषितस्तु स्त्रियं गच्छेन् प्रायश्चित्तीयते न च ॥६ निमन्त्रितस्तु यो विप्रो विधिवद्धव्यकव्ययोः । मांसादीन्यपि भुञ्जानः प्रायश्चित्तीयते न च ।।७ अष्टौ तान्यव्रतघ्नानि आपोमूलं घृतं पयः। हवि ाह्मणकाम्या च गुरोर्वचन मौषधम् ।।८ अशक्तं विधिवत्कर्तुं प्रायश्चित्तानि यो नरः । विदुषां कलनेनापि दानेनापि विशुद्ध्यति ॥