________________
ऽध्यायः] तिलदान प्रशंसावर्णनम्। २०३१
यत्कृतं दुष्कृन्तेन ज्ञानतोऽज्ञानतोऽपि वा। तस्य नश्यति तत्सर्व दुःस्वप्नञ्च विनश्यति ॥२७ तिलाः पवित्राः पापघ्ना नारायणसमुद्भवाः । तिलाः श्राद्ध प्रशंसन्ति दानमेतदनुत्तमम् ॥२८ तिलानधात्तिलान् दद्यात्तिलान् प्रातरुपस्पृशेत् । तिलास्तिला इति ब्रूयात् महत्पापविमुक्तये ।।२६ तिलास्तु देवतारूपा नावमन्या द्विजातिभिः । भोजनाभ्यञ्जनादानाद्यो न तत् कुरुते तिलैः ॥३० कृमिभूत्वाश्वविष्ठायां पितृभिः सह मजति । तिलान् यो पीड़येद्विप्रो स्ववक्त्रेण स्वयं नृप !॥३१ पीडयेद्यदि तान् मोहानरकं याति रौरवम् । इतिवंशोद्भवे सोमः सोमवंशोद्भवे द्विजः ॥३२ इक्षन् यः पीडयेत्तस्मादिक्षुधात्यात्मघातकः । इक्षुदण्डसहस्रण एककेन द्विजोत्तमः ॥३३ ब्रह्महत्यामवाप्नोति ब्राह्मणो यत्र पीड़कः ।
तस्मान्न पीड़येदिक्षुन मन्त्रचक्र द्विजोत्तमः ।।३४ इति गौतमीये वैष्णवधर्मशास्त्र तिलान्नदानादि प्रशंसानाम
त्रयोदशोऽध्यायः ।