________________
२०३०
वृद्धगौतमस्मृतिः। [त्रयोदशोअभोज्यं तद्विजानीयाद् भुक्ता चान्द्रायणचरेत् । उत्थाय च पुनर्मुक्त पादस्पृष्टञ्च लजितम् ।।१७ अन्न तद्राक्षसं विद्यात्तस्मात्तत्परिवर्जयेत् । राक्षसोच्छिष्टभुग्विप्रः सत्यपूर्वान् परानपि ॥१८ निरये रौरवे घोरे स पितृन् घातयिष्यति । तस्मिन्नाचमनं कुर्यात् यस्मिन् पात्रे स भुक्तवान् ।।१६ यश्चतिष्ठत्यनाचान्तो भुक्तवान्नासने ततः । स्नानं सद्यः प्रकुर्वीत नान्यथा प्रयतो भवेत् ।।२०
युधिष्ठिर उवाच । तृणमुष्टिविधानञ्च तिलमाहात्म्यमेव च । इक्षुसोमसमुद्भूतिं वक्तुमर्हसि मानद ! ।।२१
श्रीभगवानुवाच। पितरो वृषभा ज्ञेया गावो लोकस्य मातरः । तासान्तु पूजया राजन् ! पूजिताः पितृमातरः ॥२२ सभा विप्रगृहाश्चापि देवतायतनानि च । शुध्यन्ति स्वत एवासां किम्भूतमधिकं ततः ॥२३ ग्रासमुष्टिं परगवे दद्यात संवत्सरन्तु यः । अकृत्वास्तेयमाहारं वृतवत्सार्वकामिकम् ।।२४ गावो मे मातरः सर्वाः पितरश्चैव मे वृष्यः । ग्रासमुष्टिं मया दत्तां प्रतिगृह्णन्तु मातरः॥२५ इत्युक्त्वा तेन मन्त्रेण सावित्र्या वा समाहितः । दद्यात्तुप्रासमुष्टिं यस्तस्य पुण्यफलं शृणु ॥२६