________________
ऽध्यायः] भोजनविधिवर्णनम् ।
२०२६ अन्नं पूर्व नमस्कुर्यात् प्रहृष्टेनान्तरात्मना । नान्यदालोकयेदन्नान्नजुगुप्सेत वा पुनः ।।६ जुगुप्सितन्तु यच्चान्नं राक्षसा एव भुञ्जते । पाणिना जलमुद्धृत्य कुर्यादन्न प्रदक्षिणम ॥७ अपेयन्तद्विजानीयात् पीत्वा चान्द्रायणञ्चरेत् । परिषेकबलादन्यत पेयत्वे त्वनुमन्त्रवत् ।।८ पञ्चप्राणाहुतिं कुर्यात्समन्त्रस्तु पृथक् पृथक् । यथा रसं न जानाति जिह्वा प्राणाहुतौ नृप !18 तथा समाहितः कुर्यात् प्राणाहुतिमतन्द्रितः। विदित्वा चान्न मन्नादं पञ्च प्राणांश्च पाण्डव ! ॥१० यः कुर्यादाहुत : पञ्च तेनेष्टाः पञ्च वायवः । अतोऽन्यथा तु भुञ्जानो ब्राह्मणो ज्ञानदुर्वलः ॥११ तेनान्नेन सुरान् प्रेतान् राजसांस्तर्पयिष्यति । वक्त्रप्रमाणपिण्डानि ग्रासेनेकैन वा पुनः ॥१२ वक्त्राधिकन्तु यत्पिण्डमात्मोच्छिष्टन्तदुच्यते । दष्टावशिष्टमन्त्रञ्च वक्त्रानिःसृतमेव च ॥१३ अभोज्यन्तद्विजानीयान् भुक्ता चान्द्रायणञ्चरेत् । स्वमुच्छिष्टन्तु यो भुते यो भुङ्क्त मुक्तभाजने ॥१४ चान्द्रायणञ्च यत्कृच्छू प्राजापत्यमथापि वा । पिवतः पतिते तोये भाजने मुखनिःसृते ॥१५ अभोज्यन्तद्भवेदन्न भुक्ता चान्द्रायणञ्चरेत् । केशकीटावपन्नश्च मुखमारुतबीजितम् ॥१६