SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २०२८ वृद्धगौतमस्मृतिः। [त्रयोदशोवाप्यो वीथ्यः सभाः कूपाः दीर्घिकाश्चैव सर्वशः। निर्घोषवन्ति यानानि युक्तानि च सहस्रशः ॥५१ भक्ष्यभोज्यमयाः शैला वासांस्याभरणानि च । क्षीरस्रवन्त्यः सरितस्तथा चैवान्नार्वताः ।।५२ प्रासादाः पाण्डराभ्रामाः शय्याश्च कनकोज्वलाः। अन्नदानात्तु सिध्यन्ति तस्मादन्नप्रदो भवेत् ॥५३ इति गौतमीये वैष्णवधर्मशास्त्रे अन्नदानविधिर्नाम द्वादशोऽध्यायः । त्रयोदशोऽध्यायः। अथ भोजनविधिवर्णनम्। अन्नदानफलं श्रुत्वा प्रीतोऽस्म्यसुरसूदन !। भोजनस्य विधिं वक्तुं देवदेव ! त्वमसि ॥१ श्रीभगवानुवाच । भोजनस्य द्विजातीनां विधानं शृणु पाण्डव ! । स्नातः शुचिः शुचौ देशे निर्जने हुतपावकाः॥२ मण्डलं कारयित्वा तु चतुरश्च द्विजोत्तमः । क्षत्रियस्य ततो वृत्तं वैश्यस्य धनुसन्निभम् ।।३ कुचपादस्तु भुञ्जीयात् प्राङ्मुखश्वासने शुचौ । पादाभ्यां धरणीं स्पृष्ट्वा पादेनैकेन वा पुनः॥४ नैकवासास्तु भुञ्जीयान् नैवान्तर्धाय वै द्विजः । न भिन्नपात्रे भुञ्जीत पर्णपृष्ठे तथैव च ।।५
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy