SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ भ्यायः] धर्मसारे-अन्नदान महत्त्ववर्णनम्। २०२७ अन्नप्रणाशे सीदन्ति शरीरे सर्वधातवः।। बलं बलवतो न स्यादन्नं तस्य च देहिनः ॥३६ तस्मादन्न प्रदातव्यं श्रद्धयाऽश्रद्धयापि वा। आदित्योऽपि रसं सर्व मादत्ते स गभस्तिभिः ॥४० वायुस्तस्मात्समाधाय रसमन्ने निषेचयेत् । तत्तु मेघगतं भूमौ शक्रो वर्षति पाण्डव ! ॥४१ तस्यां शस्यानि रोहन्ति यैर्जीवन्त्यखिलाः प्रजाः। मांसमेदोऽस्थिमज्जानां सम्भवस्त्वन्न एव हि ॥४२ एवमन्नश्च सूर्यश्च पवनः शक्र एव च । एक एव स्मृतोराशि यतो भूतानि जज्ञिरे ॥४३ वरं ददाति भूतानां तेजश्व भरतर्षभ !। अन्नदानेन सम्प्रीता देवाश्च पितृभिः सह ॥४४ तस्मात्तेजो यशो वीर्य बलायुर्वद्धयः सदा। श्रद्धयानप्रदातव्यमिति पौराणिकी श्रुतिः ॥४५ अन्नदानं तु ये लोके कुर्वन्ति श्रद्धया नराः। भवनानि च दिव्यानि दिवि तेषां महात्मनाम् ॥४६ नानासंस्थानि रूपाणि नानाभूतयुतानि च । चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च ॥४७ तरुणादित्यवर्णानि स्थावराणि महान्ति च । अनेकशतसंख्यानि सान्त लवनानि च ॥४८ वदूर्यमणिचित्राणि रूप्यरूक्ममयानि च । तत्र पुष्पफलोपेताः कामदाः सुरपादपाः॥४६
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy