________________
२०२६ वृद्धगौतमस्मृतिः।
[द्वादशोश्रीभगवानुवाच । अन्नेन धार्यते सर्व जगदेतच्चराचरम् । अन्नात्प्रभवति प्राणः प्रत्यक्षो नास्ति संशयः ॥२६ अन्नच पीडयित्वा तु देशकाले च भक्तितः । दातव्यं विषुवे चान्न मात्मनो भूतिमिच्छता। विप्रमध्वपरिश्रान्तं बालं वृद्धमथापि वा ॥३० अर्चयेद्गुरुवत् प्रीतो गृहस्थो गृहमागतम् । क्रोधमुत्पादितं कृत्वा सुशीलो वीतमत्सरः ॥३१ अर्चयेदतिथिं प्रीतः परत्रेह च भूतये । अतिथीनावमन्येत न शुष्काङ्गिरमीरयेत् ।।३२ न पृच्छेत् गोत्रचरणं नाधिकं वा कदाचन । चण्डालो वा श्वपाको वा काले यः कश्चिदागतः ॥३३ अन्नेन पूजनीयः स परत्र हितमिच्छता। यः पिधाय गृहद्वारं भुङ्क्तेह्येकः प्रहृष्टवत् ॥३४ स्वर्गद्वार विधानं वै कृतन्तेन युधिष्ठिर !। विप्रदेवान्नृषीन् विप्रानतिथींश्च निराश्रयान् ॥३५ यो नरः प्रीणयत्यन्नस्तस्य पुण्यफलं महत् । कृत्वापि बहुशः पापं यो दद्यादन्नमर्थिने ॥३६ ब्राह्मणाय विशेषेण सर्वपापैः प्रमुच्यते । अन्नदः प्राणदो लोके प्राणदः सर्वदो भवेत् ॥३७ तस्मादन्न प्रयत्नेन दातव्यं भूतिमिच्छता। अन्न ह्यमृतमित्याहुरन्नपूजितकं स्मृतम् ॥३८