SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ धर्मपात्रलक्षणवर्णनम् । युधिष्ठिर उवाच । r: कीदृशाः साधवो विप्राः केभ्यो दन्तं महत्फलम् । कीदृशेभ्यो हि दातव्यं तन्मे ब्रूहि जनार्दन | ||२० ऽध्यायः ] श्रीभगवानुवाच । अक्रोधनाः सत्यपरा धर्मनित्या दमे रताः । तादृशाः साधवो लोके तेभ्यो दत्तं महत्फलम् ॥२१ अमानिनः सर्वसहा अदृष्टार्था जितेन्द्रियाः । सर्वभूतहिता मैत्रास्तेभ्यो दत्तं महत्फलम् ||२२ अलुब्धार्चयो वषां श्रीमन्तः सत्यवादिनः । स्वधर्मनिरता ये तु तेभ्यो दत्तं महत्फलम् ||२३ साङ्गाश्च चतुरो वेदान् योऽधीयीत दिने दिने । शूद्रान्नं यस्य नो देहे तम्पात्र मृषयो विदुः ||२४ प्रज्ञाश्रुताम्यां वृत्तेन शीलेन न च समन्वितः । तारयेत् सकुलं सर्वमेकोऽपीह युधिष्ठिर । ||२५ गामन्नमश्वं वित्तं वा तद्विधे प्रतिपादयेत् । नियच्छेच्च गुणोपेतं ब्राह्मणं साधुसम्मतम् ॥२६ दूरादाहूय सत्कृत्य प्रयत्नेनैव पूजयेत् ॥२७ युधिष्ठिर उवाच । धर्माधर्मविधिः कृत्स्नो मम भीष्मेण भाषितः । भीष्मवाक्यात्सारभूतं वद धर्मं सुरेश्वर ! ||२८ २०२५
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy