________________
२०२४
वृद्धगौतमस्मृतिः। [द्वादशोकाषायमात्रसारोऽपि यतिः पूज्यो युधिष्ठिर ! । अपूजितो गृहस्थैर्वा तथाचाप्यवमानितः ॥१० यतिः सर्वातिथिर्वापि नरके पातयिष्यति । तस्माच यतयः पूज्या मद्भक्ता मत्परायणाः ॥११ मयि सन्न्यस्तकर्माणः परत्र हितकालिभिः । प्रहरेन द्विजान् प्राज्ञो गा न हन्यात् कदाचन ॥१२ भ्र णहत्यासमचैतदुभयं यो निषेवते । नाग्निमुखे नोपयमे न च पादौ प्रतापयेत् ।।१३ नान्तरागमनं कुर्यान्नचामध्यं विनिक्षिपेत् । उच्छिष्टो न स्पृशेदग्निमशौचस्थश्च जातुचित् ॥१४ श्वचण्डालादिभिः स्पृष्टोनाङ्गमग्नौ प्रतापयेत् । सर्वदेवमयो वह्निस्तस्माच्छुद्धतमः स्पृशेत् ॥१५ प्राप्तमूत्रपुरीषस्तु न स्पृशेद्वह्निमात्मवान् । यावत्तु धारयेद्वेदाः स्तावदप्रयतो भवेत् ॥१६ पचनाग्नि न गृह्णीयात्परवेश्मनि जातुचित् । तेन दत्तेन चान्नेन यत्कर्म कुरुते शुभम् ।।१७ तत्कर्मणः फलस्याद्धं मग्निदस्य भवेत् नृप ।। तस्माञ्च लिङ्गितं वह्निं कुर्यादेवाविनाशिनम् ॥१८ प्रमादाद्यदि वा ज्ञानात् तस्य नाशो भविष्यति । गृहीयात्तुमाथित्वा वा श्रोत्रियागारतोऽपिवा ॥१६