________________
ऽध्यायः] धर्मशौचविधिवर्णनम्।
२०२३ द्वादशोऽध्यायः। अथ धर्मशौचविधिवर्णनम् ।
युधिष्ठिर उवाच । अनेकान्तं बहुद्वारं धर्ममाहुर्मनीषिणः । किं लक्षणोऽसौ भवति तन्मे ब्रूहि सुरेश्वर ! ॥१
श्रीभगवानुवाच । शृणु राजन् ! समासेन धर्मशौचविधिक्रमम् । अहिंसा सत्यमस्तेय मानृशंस्यं दमः शमः॥२ आर्जवञ्चैव राजेन्द्र ! निश्चितं धर्मलक्षणम् । ब्रह्मचयं तपः क्षान्तिमधुमांसस्य वर्जनम् ॥३ मर्यादाया स्थितिश्चैव मशौचस्य च लक्षणम् । बाल्ये विद्यानिषेवेत यौवने दारसंग्रहम् ॥४ स्थाविर्ये मोक्षमातिष्ठेत् सर्वदा धर्ममाचरेत् । ब्राह्मणानावमन्येत गुरून् परिवदेनच ॥५ यतीना मनुकूलः स्यादेष धर्मः सनातनः । यतिगुरुर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ॥६ पतिरेव गुरुः स्त्रीणां सर्वेषां पार्थिवो गुरुः। यद्गृहस्थार्जितं पापं ज्ञानतोऽज्ञानतोऽपि वा ॥७ निर्दष्यति सत्सर्व मेकरात्रोषितो यतिः। दुर्वृत्ता वा सुवृत्ता वा ज्ञानिनोऽज्ञानिनोऽपि वा ॥८ गृहस्थैर्यतयः पूज्याः परत्र हितकाटिभिः। एकदण्डी त्रिदण्डी वा शिखी मुण्डी तथैव च ॥ १२७