SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ वद्धगौतमस्मृतिः। [एकादशो युधिष्ठिर उवाच । सर्वेषामेव दानानां यत्तु दानं विशिष्यते । अभोज्यानाञ्च यो विप्र स्तान् ब्रवीहि सुरेश्वर ! ॥१० श्रीभगवानुवाच। अन्नमेव प्रशंसन्ति देवा ब्रह्मपुरस्सराः । अन्नेन सदृशं दानं न भूतं न भविष्यति ॥११ अन्नकुण्डं शरीरं स्वं प्राणाश्चान्ने प्रतिष्ठिताः। अभोज्यान्नानिमान् सर्वान् निखिलं तन्निबोध मे ॥१२ दीक्षितस्य कदर्य्यस्य बद्धस्य निगड़ेन तु । अभिशस्तस्य षण्ढस्य पाकभेदकरस्य च ॥१३ चिकित्सकस्य सर्वस्य तथाचोच्छिष्टभोजिनः । शूद्रानं सूतकान्नञ्च शूद्रोच्छेषणमेव च ॥१४ द्विपदान्नं नगर्यन्नं पतितान्न मनर्चितम् । तथा च पिशुनस्यान्नं यज्ञविक्रविण स्तथा ॥१५ शैलूषान्नन्तु पापानं कृतघ्नस्यानमेव च । अम्बष्ठस्य निषादस्य रङ्गावतरणस्य च ॥१६ सौर्णिकस्य वैश्यस्य शस्त्रविक्रयिणस्तथा। सुदुष्टं शौण्डिकानञ्च चेल निर्णेजकस्य च ॥१७ अनिर्देशञ्च प्रेतान्नं गणिकान्नं तथैव च । बन्दिनोचतकर्तुश्च तथा धूतविदामपि ॥१८ परिवित्तस्य यच्चान्नं परिवेत्तु स्तथैव च ।
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy