________________
ऽध्यायः] धर्माधर्म (निरयंगामि) कथनम् । २०१७
अर्थार्थमथवा स्नेहात्ते वै निरथगामिनः । ब्राह्मणानाङ्गवान्चैव वृद्धानाश्च युधिष्ठिर ! ॥६३ ये ताड़यन्ति कार्येषु ते वै निरयगामिनः । उपाध्यायश्च पितरं गुरुञ्च भरतर्षभ ।। ये त्यजन्ति सहायांश्च ते व निरयगामिनः ।।६४ अदातारं समर्था ये द्रव्याद्यालोभकारणात् । दीनानाथान्न पश्यन्ति ते वै निरयगामिनः ॥६५ क्षान्तान् दान्तान् कृशान् प्राज्ञान दीर्घकालं सहोषितान् । त्यजन्ति कृतकृत्या ये ते वै निरयगामिनः ॥६६ बालानामथ वृद्धानां श्रान्तानाश्चापि ये नराः। अदत्त्वाश्नन्ति मृष्टान्नन्ते वै निरयगामिनः ॥६७ एते पूर्वर्षिभिः प्रोक्ताः पुराणानाञ्च दूषकाः । ये च विप्रान् प्रदुष्यन्ति ते वै निरय गामिनः । ये स्वर्गन्तु समायान्ति तान् शृणुष्व युधिष्ठिर ! ॥६८ दानेन तपसा चैव सत्येन च दमेन च । ये धर्ममनुवर्तन्ते ते नराः स्वर्गगामिनः ॥६६ शुश्रूषाभिरुपाध्यायाच्छु तिमादाय भारत ! । ये प्रतिग्रहनिस्नेहा स्ते नराः स्वर्गगामिनः ॥१०० प्रतिप्रदानदातारः श्रद्धयाश्रद्धयापि वा। दातारश्चापि विद्यानान्ते नराः स्वर्गगामिनः । क्षमावन्तश्च धीराश्च धर्मकार्येषु चोस्थिताः ॥१०१