________________
वृद्धगौतमस्मृतिः।
[दशमोतपस्विनश्च ये युक्ता स्तथा भैक्षचराश्च ये । अर्थिनः किञ्चिदिच्छन्ति तेषां दत्तं महत्फलम् ।।८२ एवं धर्मविदां श्रेष्ठ ! ज्ञात्वा सर्वात्मना सदा । श्रोत्रियाय दरिद्राय प्रयच्छानुपकारिणे ॥८३ दानं यत्ते प्रियं किञ्चिच्छोत्रियाणाञ्च यत्प्रियम् । तत्प्रयच्छ स्वधर्मज्ञ ! यदिच्छसि तमक्षयम् ॥१४ निरयं ये च गच्छन्ति तच्छृणुष्व युधिष्ठिर !। गुर्वथं वा गवार्थं वा नोवेदन्यत्र पाण्डव ! ।।१५ वदन्ति येऽनृतं विप्रास्ते वै निरयगामिनः । परदारापहर्तारः परदाराभिमर्शकाः ।।८६ परदारप्रयोक्तार स्ते वै निरयगामिनः। अनाथान् प्रमदा बालान् वृद्धान् भीतान् तपस्विनः ।।८७ प्रयच्छन्ति नरा ये च ते वै निरयगामिनः । वृत्तिच्छेदं गृहच्छेदं दाराच्छेदश्च भारत ! ॥८८ मित्रच्छेदं तथा कुर्यु स्ते वै निरयगामिनः । वर्णाश्रमाणां ये संस्थाः पाषण्डा ये च पापिनः ।।८६ उपासते च तान्ये तु ते सर्वे नरकालयाः । वेदविक्रयिणश्चैव वेदानाञ्चैव दूषकाः ॥६० वेदानां लेखिनश्चैव ते वै निरयगामिनः रसविक्रयिणो राजन् ! विषविक्रयिणश्च ये ।।? क्षीरविक्रयिणश्चापि ते व निरयगामिनः । चण्डालेभ्यश्च ये क्षीरं प्रयच्छन्ति नराधमाः ॥६२