________________
ऽध्यायः] पूज्यापूज्य विप्रवर्णनम् । २०१५
यावन्तः पतिता विप्रा संसर्गात् पतितास्तथा । देवे वा पैतृके वापि राजन् ! नाहन्ति सस्कृतिम् ।।७१ क्लीवः श्वित्री च कुष्ठी च राजयक्ष्मान्वितश्च यः। अपस्मारी च यश्चाधः पित्र्ये नाईन्ति सत्कृतिम् ।।७२ चिकित्सका देवलका वृद्धा नियमधारिणः । सोमविक्रयिणश्चापि श्राद्ध नार्हन्ति सत्कृतिम् ॥७३ एकोहियस्य ये चान्नं भुञ्जते विधिवद् द्विजाः। चान्द्रायण मकृत्वा ते पुनर्नाहन्ति सत्कृतम् ।।७४ गायका नर्तकाश्चैव प्लावका वादकास्तथा । कथका योधकाश्चैव श्राद्धनार्हन्ति सत्कृतिम् ।।७५ अनग्नयश्च ये विप्रा मृतनिर्यातकाश्च ये! ते नरा हि विकर्मस्था राजन् ! नाहन्ति सत्कृतिम् ॥७६ अपरिज्ञातपूर्वश्च गणपुत्रश्च यो द्विजः। पुत्रिकापूर्वपुत्रश्च श्राद्ध नार्हन्ति सत्कृतिम् ॥७७ ऋणकर्ता च यो विप्रो यश्च वाणिजको द्विजः । प्राणविक्रयवृत्तिश्च श्राद्ध नार्हन्ति सत्कृतिम् ।।७८ चीर्णावृता गुणयुक्ता ये च स्वाध्यायतत्पराः । सावित्रीज्ञाः क्रियावन्त स्ते श्राद्ध सत्कृतिक्षमाः ॥७६ श्राद्धस्य ब्राह्मणः कालः प्राप्तं दधि घृतं तथा । दर्भाः सुमनसा क्षेत्रं तत्कालं श्राद्धदो भवेत् ॥८० चारित्रनियता राजन् ! कृशा ये कृशवृत्तयः । अर्थिनश्चोपगच्छन्ति तेभ्यो दत्तं महत्फलम् ॥८१