SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ २०१४ वृद्धगौतमस्मृतिः। दशमो. स्वर्णशृङ्गी रौप्यखुरा गन्धैः पुष्पैश्च पूजिता। वस्त्राभ्यामेव ताभ्यान्तु धावंस्तिष्ठत्यलकृताम् ॥६२ तावद्यदिच्छेत् कपिला मन्त्रपूता सुसंस्कृता। भूलोकवासिनः सर्वान् ब्रह्मलोकनयेत् स्वयम् ॥६३ भरश्वः कनकं गावो रौप्यं कृष्णतिला यवाः । दीयमानानि विप्राय प्रहृष्यति दिने दिने । अथवा श्रोत्रियेभ्यो वै तानि दत्तानि पाण्डव !। तानि निन्दन्त्यथात्मानमशुभं किन्नु नः कृतम् ॥६४ अहोरात्रं पिशाचैश्च अय॑मानाः समन्ततः। यास्यामो विलयं शीघ्र मिति शोचन्ति तानि व ॥६५ अथैतानि द्विजेभ्यो वै श्रोत्रियेभ्यो विशेषतः । दीयमानानि वर्धन्ते दातारं तारयन्ति च ॥६६ __ युधिष्ठिर उवाच । देव ! देवेश ! दैत्यघ्न ! कालः को हव्यकव्ययोः। . के तत्वपूजा मर्हन्ति वर्जनीयाश्च के द्विजाः ॥६७ __ श्रीभगवानुवाच। देवं पूर्वाहिकं कर्म पैतृकश्चापराहिकम् । कालहीनञ्च यद्दानं तहानं राक्षसं विदुः ।।६८ खादितं चावलीढश्च कलिपूर्वञ्च यत्कृतम् । रजस्वलाभिमृष्टञ्च तहानं राक्षसं विदुः ॥६६ अवकृष्टञ्च यद्भक्त्या अवृतेनापि भारत !। परामृष्टं शुना चापि तद्भागं राक्षसं विदुः ।।७०
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy