________________
२०१२
वृद्धगौतमस्मृतिः। [ दशमा
श्रीभगवानुवाच । इत्युक्ता च वरं दत्त्वा प्रययु स्ते यथागतम् ।।४२ लोकनिस्तारणार्थन्तु सा च लोकं चचार ह । तस्या एव समुद्भूताः शेषास्तु कपिला अपि ॥४३ विचरन्ति महीमेतां लोकानुग्रहकारणात् । तस्मात्तु कपिला देया परत्र हितमिच्छता। यदा च दीयते राजन् ! कपिला ह्यग्निहोत्रिणे ॥४४ तदाप्रशृङ्गयोस्तस्या विष्णू रुद्रश्च तिष्ठतः। चन्द्रवज्रधरौ वापि तिष्ठतः शृङ्गमूलयोः ।।४४ शृङ्गमध्ये तथा ब्रह्मा ललाटे गोवृषध्वजः। कर्णयो रश्विनीदेवौ चक्षुषोः शशिभास्करौ ॥४५ करयो वरुणो राजन् ! हृदये हव्यवाहनः । रोमान्ते मुनयः सर्वे चमण्येव प्रजापतिः ॥४६ निश्वासेषु स्थिता वेदाः सषडङ्गपदक्रमाः । नासापुटे स्थिता गन्धाः पुष्पाणि सुरभीणि च ।।४७ अधरे वसवः सर्वे मुखे चाग्निः प्रतिष्ठितः । साधु देवाः स्थिताः कक्षे ग्रीवायां पार्वती स्थिता ॥४८ पृष्ठे च नक्षत्रगणाः कटिदेशे यमः स्थितः । अपाने सर्वतीर्थानि गोमूत्र जाह्नवी स्वयम् ॥४६ श्रोणीतटस्थाः पितरो रोमलाङ्गुल मास्थिताः । पार्श्वयो रुभयोः सर्वे विश्वेदेवाः प्रतिष्ठिताः ।।५०