________________
ऽध्यायः] . कपिलागोःप्रशंसावर्णनम् । २०११
किमिदं देव ! देवेश ! सर्वलोकपितामह !। आज्ञापय महदेव ! किं कुर्मस्ते प्रियं प्रभो ! ॥३२ . एवमुक्तः सुरैः सर्वेः प्रहृष्टेनान्तरात्मना । तत्र सानुनयं प्रीत्या ब्रह्मा वचन मब्रवीत् ॥३३ भवन्तो ह्यनुगृह्यन्तु दोग्ध्रीमेतां पयस्विनीम् । होमधेनुरियं ज्ञेया ह्यग्नि सन्तर्पयिष्यति ॥३४ पीतक्षीरा ये हि चास्याः जातवीर्य्यपराक्रमाः । जयिष्यथ यथाकामं दानवान् सर्व एव तु ॥३५ जातवीर्यबलैश्वर्याः सत्ववन्तो जितारयः। अदेवमातृकाः सर्वाः पालयिष्यथ वै प्रजाः ॥३६ पालिताश्च प्रजाः सर्वा भवद्भिरिह धर्मतः । पूजयिष्यति यो नित्यं यज्ञैविविधदक्षिणैः ॥३७ एकमुक्ताः सुराः सर्वे ब्रह्मणा परमेष्ठिना। ततः संहृष्टमनसः कपिलाय वरं ददुः ॥३८ यस्माल्लोकहितायाद्य ब्रह्मणा त्वं विनिर्मिता। तस्मात् पूता पवित्रा च भव पापव्यपोहिनी ॥३६ ये त्वां दृष्टा नमस्यन्ति स्पृशन्ति च करैनराः। तेषां वर्षकृतं पापं त्वद्भक्तानां विनश्यतु ॥४० कामतः कृतमज्ञात मनृतं यत्तु पातकम् । त्वां दृष्टा ये नमस्यन्ति गावः सर्वसहेति च ॥४१ तेषां तद्विलयं यातु तमः सूर्योदये यथा ।