________________
कपिलागोः प्रशंसावर्णनम् ।
पृथिव्यास्तु स्वतुल्येन तेन दानेन मानवः । संसारसागरात्तीर्णो याति लोकं प्रजापतेः ॥१० ब्रह्महत्यादि वा गोध्नो भ्रूणहा गुरुतल्पगः । महापातकयुक्तोऽपि दानेनानेन शुध्यति ||११ इदं पठति यः पुण्यं कपिलादानमुत्तमम् । प्रातरुत्थाय मद्भक्त स्तस्य पुण्यफलं शृणु ॥ १२ मनसा कर्मणा वाचा मतिपूर्वं युसिष्ठिर ! | पापं रात्रिकृतं हन्यादस्याध्यायस्य पाठतः ॥ १३ इदमावर्त्तमानस्तु श्राद्धे यस्तर्पयेद् द्विजान् । तस्याप्यमृत मश्नन्ति पितरोऽत्यन्तहर्षिताः ॥१४ यश्वेदं शृणुयाद् भक्त्या मद्गतेनान्तरात्मना । तस्य रात्रि कृतं सर्व पापमाशु व्यपोहति ॥ १५ अतः परं विशेषन्तु कपिलानां शृणु क्रमात् । याश्चैताः कपिलाः प्रोक्ता दश राजन्मया तव ॥ १६ तासाञ्च तस्य प्रवराः पुण्यं पापप्राणाशनम् । नमस्कृता वा स्पृष्टा वा घ्नन्ति पापं नरस्य तु ॥ १७ यस्यैताः कपिला सन्ति गृहे पापप्रणाशनाः । तत्र श्रीर्विजयः कीर्तिः स्थिता नित्यं युधिष्ठिर ! ॥१८ तासां प्रीतिमायान्ति ददतस्त्रिदशाः सदा । पयसा पितरः सर्वे घृतेन च हुताशनाः ||१६ ततः पितामहाश्चैव तथैव प्रपितामहाः । सकृद्दत्तेन तुष्यन्ति वर्षकोटिं युधिष्ठिर ! ॥२०
Sध्यायः ]
२००६