SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ २००८ वृद्धगौतमस्मृतिः। [दशमी याश्चैताः कपिलाः प्रोक्ता देवदेव ! त्वया मम । तासाङ्कति सुरश्रेष्ठ ! कपिलाः पुण्यलक्षणाः ॥३ कथं वानुगृहीतास्ता सुरैः पितृगणैरपि । केनात्मयुक्ता वर्णेन श्रोतुं कौतूहलं हि मे। वैशम्पायन उवाच । युधिष्ठिरेणैवमुक्ते केशवः सत्यवल्लभः ॥४ गुह्यानामपरगुह्यं वक्तुमेवोपचक्रमे। श्रीभगवानुवाच । शृणु राजन् ! पवित्रं वै रहस्यन्धर्ममुत्तमम् । स्पृहणीयमिदं श्राव्यं उत्तमं हेतुवादिनाम् । यथा वत्सस्य पादौ द्वौ प्रसवे शिरसा सह ॥५ दृश्यते कालदानन्तमाहु निविदोजनाः । अन्तरीक्षगतोवत्सो यावद्भूमिं न यास्यति । गौस्तावत् पृथिवी ज्ञेया तस्माइया तु तादृशी ॥६ यावन्ति धेन्वा रोमाणि सवत्साया युधिष्ठिर !। यावन्त्यः सिकताश्चापि गर्भोदकपरिप्लुताः ॥७ तावद्वर्षसहस्राणि दाता स्वर्गे महीयते । सुवर्णाभरणं कृत्वा सवत्सां कपिलान्तु यः॥८ तिलैः प्रच्छादितां दद्यात् सर्वरत्न रलकृताम् । ससमुद्र नदी तेन सशैलद्वीपपत्तना। चतुरन्ता भवेदत्ता पृथिवी नात्र संशयः॥६
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy