SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ कापला यथा ऽध्यायः] कपिलागो प्रशंसावर्णनम् । २००७ यथैव दृष्ट्वा भुजगाः सुपर्ण नश्यन्ति दूराद्विवशा भयार्ताः। तथैवष्टा है कपिलाप्रदानं नश्यन्ति पापानि नरस्य शीघ्रम् ॥७७ यथा त्वचं स्वां भुजगो विहाय पुनर्नवं रूपमुपैति पुण्यम्। तथैवमुक्तः पुरुषः स्वपापाद्विराजते वै कपिलाप्रदानात् ।।७८ यथान्धकारं भुवनेषु लग्नं दीपो हि निर्वापयति प्रदीप्तः । तथा नरे पापमपि प्रलीनं निर्वापयेद्धि कपिलाप्रदानम् ॥७६ यावन्ति रोमाणि भवन्ति तस्या वत्सान्वितायाः स्वशरीरजानि । तावत्प्रदाता युगवर्षकोटी स ब्रह्मलोके रमते मनुष्यः ॥८० यद्याहितोऽग्नेरतिथिः प्रियस्य पूर्वाग्मदूरस्य जितेन्द्रियस्य । सत्यत्रतस्याध्ययनान्वितस्य दत्ता हि गौस्तारयते परत्र ।।८१ इति गौतमीये वैष्णवधर्मशास्त्रे कपिलादान प्रशंसोनाम नवमोऽध्यायः। दशमोऽध्यायः। अथ कपिलागोप्रशंसावर्णनम् । __ वैशम्पायन उवाच। उक्तं श्रुत्वावंचः पुण्यं कपिलादानमुत्तमम् । धर्मपुत्रः प्रहृष्टात्मा केशवं पुनरब्रवीत् ॥१ देवदेवश ! कपिला सदा विप्राय दीयते । कथं सर्वेषु चाङ्गेषु तस्या स्तिष्ठन्ति देवताः॥२ १२६
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy