________________
वृद्धगौतमस्मृतिः ।
विषुवेत्यापि येनैव सोऽश्वमेधफलं लभेत् । तेनाश्वमेध तुल्येन मम लोकं स गच्छति ॥ ६७ सुवर्णशृङ्गी रूप्यखुरा सवत्सा कांस्य दोहना । वस्त्रैरलङ्कृता पुष्टा पुष्पमाल्यैश्च पूजिता ॥ ६८ पवित्रं हि पवित्राणां सुवर्ण मिति मे मतिः । तस्मात् सुवर्णाभरणा दातव्या चाग्निहोत्रणे ॥६६ एवं दत्त्वा तु राजेन्द्र ! सत्यपूर्वान् परानपि । तारयिष्यति राजेन्द्र ! नात्रकार्या विचारणा ॥७० अग्निष्टोमसहस्रञ्च वाजपेयश्च तत्समम् ।
वाजपेयसहस्रव अश्वमेधश्च तत्समम् ॥ ७१
अश्वमेधसहस्रश्च राजसूयश्च तत्समम् । कपिलानां सहस्रेण विद्धि दत्तेन पाण्डव ! ॥७२ राजसूयफलं प्राप्य मम लोके चहीयते ।
न तस्य पुनरावृत्ति विद्यते कुरुपुङ्गव ! ॥७३ यच्छन्ति ये कपिला सबैलां सकांस्यदोहां कनकाप्रशृङ्गीम् । तैस्तैर्गुणैः कामदुधाभिभूत्वा नरं प्रदातार मुपैति सा गौः । सा कर्मभिश्चाप्यन बुध्यमानातीत्रान्धकारे नरके पतन्तम् ॥७४ महार्णवे नौरिव वायुनीता दत्ताहि गौस्तारयते मनुष्यम् । पुत्रांश्च पौत्रांश्च कुलञ्च सर्वमासन्ननाशं तारयते परत्र ॥७५ यावन्मनुष्यः पृथिवीं विभर्ति तावत्प्रदातार मुपैति तत्र । यथौषधं मन्त्रकृतं नरस्य प्रयुक्तमात्रं विनिहन्ति रोगम् । तथैव दत्ता कपिला सुपात्रे पापं निहत्याशु नरस्य सर्वम् ॥७६
२००६
[ नवमो