SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ २००४ वृद्धगौतमस्मृतिः। [नवमोगवां सहस्रन्तेनेह दत्तं भवति पाण्डव !। दशेह कपिलाः प्रोक्ताः स्वयमेव स्वयम्भुवा ॥४६ या दत्ता श्रोत्रियेभ्यो वै स्वगं गच्छति तच्छृणु । प्रथमा सुवर्णा कपिला द्वितीया गौरपिङ्गला ॥४७ त्रितीया रक्तपिङ्गाक्षी चतुर्थी वह्निपिङ्गला। पञ्चमी ब्रह्मवर्णा स्यात् षष्ठी स्यात् श्वेतपिङ्गला ॥४८ सप्तमी कृष्णपिङ्गाक्षो अष्टमी खुरपिङ्गला। नवमी पाटला ज्ञेया दशमी पुच्छपिङ्गला ॥४६ दशैताः कपिला प्रोक्ता स्तारयन्ति नरान्सदा । मङ्गल्यश्च पवित्राश्च सर्वपापप्रणाशनाः ॥५० एव मेवाप्य नडाहो दश प्रोक्ता नरेश्वर !। ब्राह्मणो वाहयेत्तास्तुं नान्यवर्णः कथञ्चन । वाहयेत्कपिलायास्तु क्षेत्रवाध्वनि पाण्डव ! ॥५१ बाहयेधुडतेनैव शाखया वा सपत्रया। सुहप्तेषु तु भुञ्जीयात् पिवेत्त्रीतेषु चोदकम् ॥५२ गुर्वीषद्भाविताश्चैते पितरस्ते प्रकीर्तिताः । अन्नः पूर्वे त्रिभागे तु घूर्याणां वाहनं स्मृतम् । विश्रामो मध्यमे भागे भाग्यश्चान्ते यथासुखम् ॥५३ यत्र वा त्वरया कृत्य संशयो यत्र वाञ्छति । वाहयेत्तत्र धुयास्तु न स पापेन लिप्यते ॥५४ अन्यथा वाहनादेव निरयं याति रौरवम् । रुधिरं पातयेत्तेषां यस्तु किञ्चिन्नराधमः ।।५५
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy