________________
२००३
ज्यायः] कपिलादानप्रशंसावर्णनम् ।
प्रातरुत्थाय यो मयो कपिलाशृङ्गमस्तकात् । च्युतात्पयस्तुशीर्षेण धारयेत्प्रयतः शुचिः॥३५ स तेन पुण्यनानेन तत्क्षणाद्गतकिल्विषः। वर्षमेकण्डुहिप्राप्यं प्रदहत्यग्निवत्तृणम् ॥३६ मूत्रेण कपिलायास्तु यस्तु प्रातरुपस्पृशेत् । । सानेन तेन गुण्येन नष्टपापः समाहितः॥३७ त्रिसद्वर्षकृतात्पापात्पूयते नात्र संशयः। प्रातरुत्थाय यो भक्त्या प्रयच्छेत्तृणमुष्टिकम् ।।३८ तस्य नश्यति तत्पापं त्रिंशद्बात्यकृतं नृप !। प्रातरुत्थाय मद्भक्त्या कुर्याद्यस्ता प्रदक्षिणम् ॥३६ प्रदक्षीणीकृता तेन पृथिवी नात्र संशयः। . प्रदक्षिणेन चैकेन श्रद्धायुक्तस्य पाण्डव !॥४० दशरात्रकृतं पापं तत्क्षणादेव नश्यति । दृष्टा तु कपिला भक्त्या श्रुत्वा हम्बारवं तथा ॥४१ व्यपोहति नरः पाप महोरात्रकृतं नृप !। यत्र वा तत्र वा चाङ्गे कपिलायाः स्पृशेच्छुचिः ।।४२ संवत्सरकृतं पापं स नाशयति पाण्डव !। गोसहस्त्रश्च यो दद्यादेकाञ्च कपिलां नरम् ॥४३ समन्तस्य फलम्साह ब्रह्मलोके पितामहः । यस्त्वेता कमिला हन्यानरः किश्चित्प्रमादतः ॥४४ गोसहस्रहतं तेन भवेन्नात्र विचारणा । यस्त्वेका कपिला दद्याच्छोत्रियायाग्निहोत्रिणे ॥४५