SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ २००२ वृद्धगौतमस्मृतिः। [नवमोतपसान्तप एवानं बताना मुत्तमं व्रतम् । दानानामपरं दानं विमानं हैममक्षयम् ॥२४ पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च । पवित्राणि च रम्याणि सर्वलोकेषु पाण्डव ! २५ वेभ्य स्तेजः समुद्धृत्य ब्रह्मणा लोक कारिणा । लोकनिस्तरणार्थाय निर्मिता कपिला स्वयम् ॥२६ सर्वतेजोमयी ह्येषा कपिला पाण्डुनन्दन !। सदामृतवहा मेध्या शुचिः पावनमुत्तमम् ।।२७ क्षीरेण कपिलायास्तु दध्ना चैव घृतेन च । होतव्यान्यमिहोत्राणि सायम्प्रात द्विजातिभिः ।।२८ कपिलाया घृतेनापि दध्ना क्षीरेण वा नृप !। जुह्वते ये ऽग्निहोत्राणि ब्राह्मणो विधिवत्सदा ॥२६ पूजयन्त्यतिथींश्चैव परां भक्ति मुपागताः। शूद्रानविरता नित्यं दम्भानृतविवर्जिताः ॥३० ते यान्त्यादित्यकल्पेन विमानेन द्विजोतमाः। सूर्यमण्डलमध्येन ब्रह्मलोक मनुत्तमम् ॥३१ अक्षणो भवने दिव्ये कामगाः कामरूपिणः । ब्रह्मणा पूज्यमानास्तु मोदन्ते कल्प मक्षयम् ॥३२ एवं हि कपिला राजन् ! पुण्यं पापौघतारिणी। आदावेवाग्निहोत्रात्तु मन्त्रै ब्रह्मादिनिर्मिता ॥३३ शृङ्गाने कपिलायास्तु सर्वतीर्थाणि पाण्डक !। ब्रह्मणोहि नियोगेन निवसन्ति दिने दिने ॥३४
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy