________________
ऽध्यायः] कपिलादान प्रशंसावर्णनम्।
२००१ कपिलाया घृतं क्षीरं दधि तक मथा पिवा । ये शूद्रा उपभुञ्जन्ते तेषां गति मिमां शृणु ॥१३ कपिलोपजीवी शूद्रस्तु मृतो गच्छति रौरवम् । क्लिश्यते रौरवे घोरे वर्षकोटिशतं नृप !॥१४ ततश्च मुक्तः पापेन शुनां योनिशतं व्रजेत् । श्वयोन्याश्च परिभ्रष्टो विष्ठायां जायते क्रिमिः ॥१५ विष्ठावर्गेषु पापिष्ठो दुर्गन्धेषु सहस्रशः । तत्र तत्रैव जायेत नोत्तरं तत्र विन्दति ॥१६ ब्राह्मणश्चापि यस्तेषां गृहे कुर्यात्प्रतिग्रहम् । ततः प्रभृति तस्यापि पितरः स्युरमेद्ध्यपाः ।।१७ न तेन साद्धं सम्भाषेनचाप्येकासनं ब्रजेत् । स नित्यं वर्जनीयो हि दूरादुर्ब्राह्मणोहि सः॥१८ यस्तेन सह सम्भाषेदेकशय्यां प्रजेत वा । प्राजापत्यञ्चरेत्कृच्छू सच तेनैव शुध्यति ॥१६ कपिलोपजीविनःशूद्राद्यः करोति प्रतिग्रहम् । प्रायश्चित्तं भवेत्तस्य विप्रस्येदं न संशयः ।।२० वर्ष ब्रह्मकृच्छ्रान् कुर्वीत चान्द्रायण मथापिवा । मुच्यते किल्विषात्तस्मात्तेन स्याद् ब्राह्मणों हि सः॥२१ कपिला ह्यग्निहोत्रार्थे विप्रार्थे च स्वयम्भुवा । सर्वतेजः समुद्धृत्य निर्मिता ब्रह्मणा पुरा ॥२२ पवित्रञ्च पवित्राणां मङ्गलानाञ्च मङ्गलम् । पुण्यानां परमं पुण्यं कपिला पाण्डुनन्दन ! ॥२३