________________
१६६८
वृद्धगौतमस्मृतिः। [अष्टमोनागयज्ञगृहस्थाने राजसा भुञ्जते फलम् । सात्विकाः सत्वसम्पन्ना मत्पदं यान्ति मानवाः ॥१०२ ये सिध्यन्ति च साङ्खथन योगसत्वबलेन च । नभस्यादित्यचन्द्राभ्यां पश्यन्ति पदविस्तरम् ॥१०३ एकस्तम्भे नवद्वारे त्रिस्थूणे पञ्चधातुके । एतस्मिन् देहनगरे ये वसन्ति कृतं शृणु ॥१०४ उदिते तस्य विप्रस्य क्रियायुक्तस्य धीमतः । चतुर्वेदविदश्चापि देहे षड्वृषलाः स्थिताः ॥१०५ क्षत्रियः सप्तविज्ञेयो वैश्यस्त्वष्टौ प्रकीर्तिताः। नियताः पाण्डवश्रेष्ठ ! शूद्राणामेकविंशतिः ॥१०६ कामः कोधश्च लोभश्च मानश्च मद एव च । महामोहस्तथेत्येते देहे षड्वृषलाः स्थिताः ॥१०७ गर्वोदम्भोऽप्यहङ्कार ईयाभिद्रोह एव वा। पारुष्यं क्रूरताचेति एते ते क्षत्रियाश्रिताः ॥१०८ तीक्ष्णता निकृतिर्माया शाठ्य दम्भोधनार्जवम् । पैशून्यमनृतब्चैव वैश्यस्याष्टौ प्रकीर्तिताः ॥१०६ सृष्णां बुभुक्षा चालस्यं निद्रां चाप्यघृणां दमम् । अधृतिञ्च विवादञ्च प्रमादम् हीनसत्वता ॥११० भयं वितथतां जाल्म्यं पापता मन्युरेव च । आशां चाश्रद्दधानत्वादनवस्थाप्य यन्नृणाम् ॥१११ अशौचं मलिनत्वच शूद्रास्यते प्रकीर्तिताः। यस्मिन्नेते न दृश्यन्ते सर्वे ाह्मण उच्यते ॥११२