________________
ऽध्यायः भगवद्भक्तवर्णनम् ।
१६६७ युधिष्ठिर उवाच । त्वद्भक्ताः कीदृशा देव ! कानि वृत्तानि तन्नृणाम् । एतत्कथय देवेश ! त्वद्भक्तस्य ममाच्युत ! ॥१२
श्रीभगवानुवाच । अनन्यदेवता भक्त्या ये मद्भक्तजनप्रियाः। मामेव शरणं प्राप्ता मद्भक्तास्ते प्रकीर्तिताः॥ ६३ स्वर्गाण्यपि यशस्यानि मप्रियाणि विशेषतः। मद्भक्ताः पाण्डवश्रेष्ठ ! वृत्तानीमानि धारयेत् ॥६४ नान्यदाच्छादयेद्वस्त्र मद्भक्तो जलतारणे। स्वस्वस्तु न दिवा स्वप्यात् मधुमांसानि वर्जयेत् । प्रदक्षिणं व्रजेद्विद्वान् गामश्वत्थं हुताशनम् ।।६६ निधावे पतिते वर्षे नाप्रभिाञ्च लोपयेत् । प्रत्यक्षलवणं नाद्यात्सौहाशनकब्रजिनौ ॥१७ प्रासमेषाङ्गवे दद्यात् धान्यान् पञ्चैव वर्जयेत् । तथा पर्युषितञ्चान्नं पक्वं परगृहायुतम् ।।६८ वैदिकञ्चैव यद्धव्यं तत्प्रयत्नेन वर्जयेत् । विभीतक करञ्जानां छायां दूरात्तु वर्जयेत् ॥ विप्रवादपरीवादं न वदेत् पीडितोऽपि सन् । सात्विका राजसाश्चापि तामसाश्चापि पाण्डव ! ॥१०० मामर्चयन्ति भद्भक्तास्तेषामीग्विधा गतिः । तिर्यमानुषदेहेषु तामसा भुञ्जते फलम् ॥१०१