SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ ज्यायः] पूजार्थं पुष्पवर्णनम् । १९६५ श्रीभगवानुवाच । शृणुष्वावहितोराजन् ! पुष्पाणि विविधानि मे । कुमुदं करवीरथ गणकञ्चम्पकन्तथा । मल्लिका जातिपुष्पञ्च नद्यावर्तश्च मे प्रियम् ।।७४ पलाशपत्रं पुष्पञ्च दूर्वाभ्रहकमेव च । वनमाला च राजेन्द्र ! मप्रियाणि विशेषतः ॥७५ सर्वेषा मपि पुष्पाणां सहस्र गुणमुत्पलम् । तस्मात्पद्म तथा राजन् ! पद्मात्तु शतपत्रकम् ॥७६ तस्मात्सहस्रपत्रन्तु पुण्डरीकं ततः परम् । पुण्डरीकसहस्रात्तु तुलसी गुणतोऽधिका । वकपुष्पं ततस्तस्याः सौवर्णन्तु ततोऽधिकम् ।।७७ . सौवर्णाश्च प्रसूनात्तु मत्प्रियं नास्ति पाण्डव !। पुष्पालाभे तुलस्यास्तु पत्रैर्मामर्चयेद्बुधः ।।७८ पत्रालाभे तु शाखाभिः शाखालाभे शिफालवैः। शिफालाभे मृदा तत्र भक्तिमानर्चयेत माम् ।।७६ वर्जनीयानि पुष्पाणि शृणु राजन् ! समाहितः। किङ्किणों मुनिपुष्पञ्च धत्तूरं पाटलान्तथा । तथामुक्तवैभितकं पुन्नागनक्तमालकम् । यौधिकं क्षीरिकापुष्पं निर्गुण्डी जागलीजपा। कर्णिकारन्तथाशोकं शाल्मलीपुष्पमेव च ।।८० ककुभं कोविदारश्च वैभीतकमथाऽपि च । कुरण्डकप्रसूनञ्च तिल्वकं धातकी तथा ।।८१
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy