SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १६६४ वृद्धंगौतमस्मृतिः। [अष्टमोतद्धि भृत्यजनस्यान्न सानपानञ्च तद्विदुः । अतर्पयित्वा तान् पूर्व स्नानवखन पीड़येत् ॥६५ पीड़येद्यदि तन्मोहादेवाः सर्षिगणास्तथा । पितरश्च निराशास्तं शप्त्वा यान्ति यथागमम् ॥६६ प्रक्षाल्य तु मृदा पादावाचम्य प्रयतः पुनः। दर्भेषु दर्भपाणिः सन् स्वाध्यायन्तु समाचरेत् ॥६७ वेदवादी समारभ्य तथोपर्युपरि क्रमात् । यदधीते वदन चित्या तत् स्वाधायं प्रचक्षते । चं वाऽथ यजुर्वापि सामगाथा मथापिवा ॥६८ इतिहासपुराणं वा यथाशक्ति न हापयेत् । उत्थाय तु नमस्कृत्वा दिशोदिग्देवता अपि ॥६६ . ब्रह्माणं श्वसनश्चाग्निं पृथिवी मोषधीस्तथा। वाचं वाचस्पतिश्चापि विष्णुध पितरं तथा ॥७० नमस्कारात्तमद्भिस्तु प्रणवादि च पूजयेत् । ततो नमोऽस्तु इत्युक्ता नमस्कुर्यात्तु तज्जलम् । घृणी सूर्य स्तथादित्य इत्युक्तात्रिः स्वमूर्धनि ।।७१ सिक्तावलोकयेदन्तं प्रणवेन समाहितः । ततोमामर्चयेत्पुण्य मंत्प्रियरेव नित्यशः ॥७२ युधिष्ठिर उवाच। त्वप्रियाणि प्रसूनानि त्वदनिष्टानि माधव !। सर्वाण्याचक्ष्व देवेश ! त्वद्भक्तस्य ममाच्युत ! ॥७३
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy