________________
१६६० वृद्धगौतमस्मृतिः।
[अष्टमोमृदच गोमयं चैव तिलदर्भास्तथैव च। पुष्पाण्यपि यथालाभमादाय तु जलं व्रजेत् ॥२१ नद्यां सत्यां न च स्नायादन्यत्र द्विजसत्तमः। सति प्रभूते पयसि नाल्पे स्नायात्कदाचन ।।२२ गत्वोदकसमीपे तु शुचौ देशे मनोहरे । ततो मृदोमयादीनि तत्र प्रोक्ष्य विनिक्षिपेत् ॥२३ प्रदक्षिणं समावृत्त्या नमस्कुर्यात्तु तलम् । न च प्रक्षालयेत्तीर्थन्ताभिर्विद्वान् कदाचन ॥२४ न च पादेन वा हन्याद्धस्तेनैव च वा जलम् । सर्वदेवमया ह्यापो मम याः पाण्डुनन्दन ! ।।२५ तस्मात्तास्तु न हन्तव्यास्ताभिनिग्राहयेत् स्थलम्। केवलं प्रथमं मज्जेत् नाङ्गानि बिभृजेद् बुधः॥२६ ततस्तीर्थ समासाद्य कुर्यादाचमनं बुधः। गोपुच्छाकृतिवत् कृत्वा करैश्च प्रपिबेज्जलम् ॥२७ द्विस्तत्परिमृजेद्वक्तुं पादावभ्युक्ष्य चात्मनः । शीर्षण्यांस्तु ततः प्राणान् सकृदेव समं स्पृशेत् ।।२८ बाहू द्वौ च ततः स्पृष्टा हृदयं नाभिमेव च। प्रत्यङ्गमुदकं स्पृष्ट्वा मूर्धानन्तु ततः स्पृशेत् ।।२६ आपः पुनन्त्वित्युक्ता च पुनराचमनश्चरेत् । सोङ्कारं व्याहृतिं वापि सदसस्पतिमित्यूचम् ॥३० आचम्य प्रथमं पश्चात् तत्र कृत्वा समालभेत् । ऋग्वेदं विष्णुरित्यङ्गमुत्तमाधममध्यमम् ॥३१