SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १६८८ वृद्धगौतमस्मृतिः। [अष्टमो श्रीभगवानुवाच । शुभाशुभकृतं सर्व प्राप्नोतीह फलं नरः। स तु सर्वस्य भूतस्य परत्वन्नाम विद्यते ॥२ पञ्चत्वं पाण्डवश्रेष्ठ ! पञ्चीभूतकरं परम् । तेषां पञ्चमहायज्ञान ये कुर्वन्ति द्विजोत्तमाः॥३ पञ्चत्वं पञ्चभिभूत वियोगं सम्प्रपद्यते। न जायते न म्रियते पुरुषः शाश्वतः सदा ॥४ प्रायेण मरणं नाम पापिनामेव पाण्डव !। येषान्तु न गतिः पुण्या तेषां मरणमुच्यते ॥५ प्रायेणाकृतकृत्यत्वाद् भूय उद्विजते जनः। कृतकृत्याः प्रतीक्षन्ते मृत्यु प्रियमिवातिथिम् ॥६ युधिष्ठिर उवाच । पञ्चयज्ञाः कथं देव ! क्रियन्ते तु द्विजातिभिः । तेषान्नाम च देवेश ! वक्तुमर्हत्यशेषतः ॥७ श्रीभगवानुवाच । शृणु पञ्च महायज्ञान् कीर्त्यमानान् युधिष्ठिर!। यैरेव ब्रह्मसालोक्यं लभ्यते गृहमेधिना ।।८ ऋषियज्ञं ब्रह्मयज्ञं भूतयज्ञश्च पार्थिव !। नृयज्ञं पितृयज्ञं च पञ्चयज्ञान प्रचक्षते ॥8 तपणं ऋषियज्ञः स्यात् स्वाध्यायो ब्रह्मयज्ञकम् । भूतयज्ञो बलियज्ञो नृयज्ञोऽतिथिपूजनम् ॥१०
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy