________________
ऽध्यायः] पञ्चमहायज्ञवर्णनम् । १६८७ नागोप्रदा स्तत्र पयः पिबन्ति ।
न भूमिदा भूमि मथाश्नुवन्ति । अन्यान् कामान् ब्राह्मणेभ्यो ददाति
___तो स्तान् कामान् स्वर्गलोके स भुङ्क्ते ॥१२८ यद्यदिष्टतमं द्रव्यं न्यायेनोपार्जितश्च यत् । ततो गुणवते देयं न देवात् क्षयमिच्छता ॥१२६ अनुपोष्य च रात्रिञ्च तीर्थान्यनभिगम्य च । अदत्त्वा काश्चनङ्गाश्च दरिद्रो नाम जायते ॥१३० दानं यत्सफलं नैव श्रोत्रियाय ने दीयते । न तद्गुणवते देयं न देवात् क्षय मिच्छता ॥१३१ अनुपोष्य च रात्रिश्च तीर्थान्यनभिगम्य च । श्रोत्रिया यत्र नाश्नन्ति न देवा स्तन भुञ्जते ॥१३२ श्रोत्रियेभ्यः परं नास्ति दैवतं तारणं महत् । निधानश्चापि राजेन्द्र ! नास्माच्छ्रोत्रियभाजनात् ॥१३३ इति गौतमीये श्रीवैष्णवधर्मशास्त्रे सप्तमोऽध्यायः ।
अष्टमोऽध्यायः । अथ पञ्चमहायज्ञवर्णनम् ।
युधिष्ठिर उवाच । विप्रयोगे शरीरस्य सेन्द्रियस्य विशेषतः। . अन्तरा वर्तमानस्य गतिःप्राणस्य कीदृशी ॥१