________________
१९८६ वृद्धगौतमस्मृतिः। [सप्तमो
अग्निप्रवेशं यश्चापि कुरुते मद्गतात्मना । सोऽपि यानेन दिव्येन मम लोकं प्रपद्यते ॥११७ तत्र सर्वगुणोपेतः पश्यत्येव च मां सदा। त्रिंशत्कोटिसमा राजन् ! मोदते मम सन्निधौ ॥११८ ततोऽवतीर्णः कालेन वेदविद् ब्राह्मणो भवेत् । कारीषं साधयेद्यस्तु मां प्रपन्नः शुचिव्रतः ॥११६ नमो ब्रह्मण्यदेवायेत्येतन्मन्त्र मुदीरयेत् । बालसूर्यप्रकाशेन विमानेन विराजता ॥१२० मम लोकं समासाद्य पञ्चकोटीः प्रमोदते । मम लोकावतीर्णश्च लोकेऽस्मिन् क्षत्रियो मवेत् ।।१२१ निवेदयति मन्मूल् मन्मना मद्गतः शुचिः। रुद्रं दक्षिणमूर्ति वा चतुर्दश्यां विशेषतः ॥१२२ सिद्धेब्रह्मर्षिभिश्चैव देवैः सर्वैश्च पूजितः । गन्धर्व भूतसङ्घश्व गीयमानो महातपाः ॥१२३ प्रविशेत् स महातेजा मां वा शङ्करमेव वा । तस्यापुनर्भवं राजन् ! विद्धि नात्र विचारणा ॥१२४ स्त्रीगृहे गोगृहे वाथ गुरुविप्रगृहेऽथवा । हन्यते यैस्तु राजेन्द्र ! शत्रुलोकं ब्रजन्ति ते ॥१२५ तत्र जाम्बूनदमये विमाने कामगामिनि । मन्वन्तरं प्रमादन्ते दिव्यनारीनिषेविताः ॥१२६ अश्रुतस्याप्रदानेन दत्तस्य हरणेन च । जन्मप्रभृति यहत्तं सर्व नश्यति भारत ! ॥१२७