________________
अनेकदान महत्त्ववर्णनम् ।
दक्षिणाश्च ततो दद्यात् प्रहृष्टेनान्तरात्मना । स गच्छति महातेजा ब्रह्मलोक मनुत्तमम् ॥१०६ सिंहयुक्तेन यानेन दिव्य स्त्रीगणसेवितः । तत्रैव ब्रह्मणो लोके देवर्षिगणसेवितः ||१०७ शतकोटिसमा राजन् ! यथाकामं प्रमोदते । ततः कालावतीर्णश्च सोऽस्मिन् लोके द्विजो भवेत् ॥ १०८ षडङ्गविच्चतुर्वेदी त्रिंशज्जन्मन्य रोगवान् । यः स्तुत्वा सर्वकामस्तु शुचिः क्रोधविवर्जितः ॥ १०६ महाप्रस्थानमेकाग्रो याति तद्गतमानसः ।
स गच्छेदिन्द्रसदनं विमानेन महातपाः ॥ ११० महामणिविचित्रेण सुवर्णेन विराजता । शतकोटिसमास्तत्र सुराधिपतिपूजितः ॥ १११ नागपृष्ठे निवसति दिव्य स्त्रीशत सेवितः । शक्रलोकावतीर्णश्च मानुषेषु प्रजायते ॥ ११२ राज्ञां राजन् ! महातेजाः सर्वलोकाचितः प्रभुः । प्रायोपवेशं यः कुर्यात् मद्गतेनान्तरात्मना ॥ ११३ नमो ब्रह्मण्यदेवायेत्युक्ता मन्त्रं समाहितः । पुनः स्वस्थो जितक्रोधस्तस्य पुण्यफलं शृणु ॥११४ कामगः कामरूपी च बालसूर्यसमप्रभः । स विमानेन दिव्येन याति लोकांस्तु मामकान् ॥ ११५ स्वर्गास्वर्गमहातेजा गत्वा दत्त्वा यथासुखम् । मम लोकेषु रमते यावदाभूतसंप्लवम् ॥ ११६
अध्यायः ]
१६८५