________________
१९८४
वृद्धगौतमस्मृतिः। [सप्तमो कर्कशाभि वरखीभिः सेव्यमानो यथासुखम् । तत्र च द्वादशकोटिसमाः सुखं प्रमोदते ॥६६ ततो लोकावतीर्णश्च लोके चास्मिन् नराधिप !। भवेद्वै ब्राह्मणो विद्वान् क्षमावान् वेदपारगः ॥६७ षष्ठकाले तु योऽश्नाति वर्षमेकन्तु कल्पशः। ब्रह्मचर्याकृते युक्तः शुचिः क्रोधविवर्जितः ॥६८ तपोयुक्तस्य तस्यापि शृणुष्व फलमुत्तमम् । अग्न्यादित्यप्रकाशेन विमानेनाग्निसन्निभः॥१६ स याति मम लोकं वै दिव्यनारी निषेवितः । तत्र सर्वैर्मरुद्भिश्च सेव्यमानो यथासुखम् ॥१०० पश्यत्येव सदा मां तु क्रीडत्यप्सरसाङ्गणैः । पक्षोपवासं यश्चापि कुरुते मद्गगतात्मना ॥१०१ समाप्ते तु व्रते तस्मिस्तर्पयेच्छोत्रियं द्विजम् । सोऽपि यानेन दिव्येन सेव्यमानो महर्षिभिः ॥१०२ द्योतयन् प्रथमं व्योम मम लोकं प्रवर्तते । तत्र वै मोदते कामं कामरूपी यथासुखम् । त्रिंशत्कोटिसमा राजन् ! क्रीडित्वा देववत् सुखम् ।।१०३ इह मानुष्यके लोके पूजनीयो द्विजोत्तमः । त्रयाणामपि वेदानां साङ्गानां पारगो भवेत् ।।१०४ यश्च मासोपवासं वै कुरुते मद्गतात्मना । जितेन्द्रियो जितक्रोधो जितधीः स्नानतत्परः। समाप्ते नियमे तत्र भोजयित्वा द्विजोत्तमान् ॥१०५