________________
ऽध्यायः]
अनेकदान महत्त्ववर्णनम्। १९८३ ततश्चापि च्युतः कालादिह राजा भविष्यति । तस्मिन्नेव दिने विप्रान् भोजयित्वा सदक्षिणम् ॥८५ तोयपूर्णानि रम्याणि भाजनानि दिशन्ति ये। ते यान्त्यादित्यवर्णाभै विमान वरुणालयम् ॥८६ तत्र दिव्याङ्गनाभिस्तु रमन्ते कामगामिना। ततोऽवतीर्णाः कालेन ते चास्मिन् मानुषे पुनः ।।८७ भोगवन्तो द्विजश्रेष्ठा भविष्यन्ति न संशयः । अनन्तराशी यश्चापि वर्तते मृतवत्सदा ॥८८ सत्यवान् क्रोधरहितः शुचिः स्नानरतः सदा । स विमानेन दिव्येन याति रत्नपुरं नरः ।।८६ तत्र दिव्याप्सरोभिस्तु वर्षकोटिं महातपः। क्रीडित्वा मानुषे लोके जायते वेदविद्विजः ॥६० एक भुक्तेन यश्चापि वर्षमेकन्तु वर्तते । ब्रज्ञचारी जितक्रोधः सत्यशौचसमन्वितः॥६१ स विमानेन शुभ्रण याति शक्रपुरं नरः ॥२ दशकोटिसमास्तत्र क्रीडित्वाप्सरसाङ्गणैः । इह मानुष्यके लोके ब्राह्मणों वेदविद्भवेत् ॥१२ चतुर्थेनेह भक्तेन ब्रह्मचारी जितेन्द्रियः । वर्तते वर्षमेकं यस्तस्य पुण्यफलं शृणु ॥६४ चित्तबहिणयुक्तेन विचित्रध्वजशोभिना । याति यानेन दिव्येन स महेन्द्रपुरन्नरः ।।६५