________________
१९८२
वृद्धगौतमस्मृतिः। [सप्तमोभवेश्च सुभगश्रीणां स्त्रीणां नित्यं मनोहरः। उपानहञ्च च्छत्रञ्च यो ददाति नरोत्तमम् ॥७५ स याति रथमुख्येन काञ्चनच्छत्रशोभिना। शकलोकं महातेजाः सेव्यमानोऽप्सरोगणैः ॥७६ काष्ठपादुकदा यान्ति विमान वृषियोजितैः । धर्मराजपुरं रम्यं सेव्यमानाः सुरोत्तमैः ।।७७ दन्तकाष्ठप्रदानेन मृष्टधातु भवेन्नरः । सुगन्धवदनः श्रीमान् मेधासौभाग्यसंयुतः। क्षीरं दधि घृतं वापि गुडं मधुरसं तथा ॥७८ ये प्रयच्छन्ति विप्रेभ्यः परां भक्ति मुपागताः । ते वृक्ष रश्वयानैश्च श्वेतैः स्रग्दामभूषितैः । गीयमानश्च गन्धर्वन्ति शक्रपुरं नरः ॥७६ तत्र दिव्याप्सरोऽभिस्तु सेव्यमानो यथासुखम् । षष्टिवर्षसहस्राणि मोदन्ते देवसन्निभाः॥८० ततः कालावतीर्णाश्च जायन्ते विह मानवाः । प्रभूतधनधान्याश्च भोगवन्तो नरोत्तमाः॥८१ वैशाखे मासि वैशाखे दिवसे पाण्डुनन्दन ! । वैवस्वतं समुद्दिश्य परां भक्ति मुपागताः ॥८२ अभ्यर्च्य विधिवद्विप्रास्तिलान् गुडसमायुतान् । ये प्रयच्छन्ति विप्रेभ्यः स्तेषां पुण्यफलं शृणु ॥८३ गोप्रदानेन यत्पुण्यं विधिवत् पाण्डुनन्दन !। तत्पुण्यं समनुप्राप्तो यम लोके महीयते ॥८४