SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १९८१ ऽध्यायः] अनेकदान महत्त्ववर्णनम्। स याति मामकं लोकं दिव्यत्रीशतसेवितः । गीयमानोऽमरस्त्रीभि वर्षाणां कोटिविंशतिम् ॥६४ क्रीडित्वा मामके लोके तत्र देवैरभिष्टतः । मानुष्य मवतीर्णस्तु वेदविद् ब्राह्मणो भवेत् ॥६५ करकं कुसिकां वापि यो महजलभाजनम् । यः प्रयच्छति विप्राय तस्य पुण्यफलं शृणु ॥६६ ब्रह्मचर्ये तु यत्प्रीते फलं प्रोक्तं यथाविधि । तत्पुण्यफलमाप्नोति जलभाजनदो नरः॥६७ सुराप्तः सुप्रभः सौम्यः प्रहृष्टेन्द्रिमानसः। हंससारसयुक्तेन विमानेन विराजिता ॥६८ स याति वारुणं लोकं दिव्यगन्धर्वसेवितम् । पानीयं यः प्रयच्छेवै जीवानां जीवनं परम् ॥६६ नैष्ठिकषु च मासेषु तस्य पुण्यफलं शृणु। कपिलाकोटिदानस्य यत्पुण्यन्तु विधीयते ।।७० तत्पुण्यफलमाप्नोति पानीयं यः प्रयच्छति । पूर्णचन्द्रप्रकाशेन विमानेन विराजता ॥७१ स गच्छेद्विभुसदनं सेव्यमानोऽप्सरोगणैः । त्रिंशत्कोटिसमास्तत्र दिव्यगन्धर्वसेवितः ॥७२ क्रीडित्वा मानुषे लोके चतुर्वेदी द्विजोभवेत् । शिरोऽभ्यङ्गप्रदानेन तेजस्वी प्रियदर्शनः ।।७३ सुभगो रूपवान् शूरः पण्डितश्च भवेन्नरः । वस्त्रदायी तु तेजस्वी रूपवान् प्रियदर्शनः ।।७४ ।
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy