________________
१६८०
वृद्धगौतमस्मृतिः। [ सप्तमोः तत्र दिव्याप्सरोभिस्तु देवमानं प्रमोदते । देवलोकावतीर्णश्च स लोकेऽस्मिन्नराधिप ! ॥५३ वेदवेदाङ्गतत्त्वज्ञो भगवान् ब्राह्मणो भवेत् । चत्वरे वा सभायां वा तोरणे वा गृहाङ्गणे ॥५४ वृत्वाग्निकुण्डं विपुलं स्थण्डिलं वा युधिष्ठिर !। तत्राग्निश्चतुरोमासान् ज्वालयेद्यस्तु भक्तिमान् ॥५५ समाप्तेषु तु मासेषु पुण्यादिषु तथा द्विजान् । भोजयेत्पायसं मृष्टं सघृतं मद्गतात्मना ॥५६ दक्षिणाञ्च यथाशक्ति ब्राह्मणेभ्यो निवेदयेत् । एवं नित्यन्तु यः कुर्यात् नित्य मेवार्चयंस्तु माम् ।।५७ तस्य पुण्यफलं यद्वै तन्निबोध युधिष्ठिर ! । तेनाहं शङ्करश्चास्मि पितरो ह्यग्नयस्तथा ॥५८ यास्यामः परमां प्रीतिं नात्र कार्या विचारणा। षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ॥५६ सोऽस्मत्प्रीतिकरः श्रीमान् मम लोके महायशाः। वेदवेदाङ्गविद्विषो जायतेऽमरपूजितः ॥६० यः कोरोति नरश्रष्ठ ! भरणं ब्राह्मणस्य तु । श्रोत्रियस्याभिजातस्य दरिद्रस्य विशेषतः ॥६१ तस्य पुण्यफलं यद्वै तन्निबोध युधिष्ठिर ! । गवां कोटिप्रदानेन यत्पुण्यं समुदाहृतम् ॥६२ तत्युण्यफलमाप्नोति वर्षेणैकेन पाण्डव !। काञ्चनेन विचित्रेण यानेनाम्बरशोभिना ॥६३